वांछित मन्त्र चुनें

इ॒ह प्रि॒यं प्र॒जया॑ ते॒ समृ॑ध्यताम॒स्मिन्गृ॒हे गार्ह॑पत्याय जागृहि । ए॒ना पत्या॑ त॒न्वं१॒॑ सं सृ॑ज॒स्वाधा॒ जिव्री॑ वि॒दथ॒मा व॑दाथः ॥

अंग्रेज़ी लिप्यंतरण

iha priyam prajayā te sam ṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi | enā patyā tanvaṁ saṁ sṛjasvādhā jivrī vidatham ā vadāthaḥ ||

पद पाठ

इ॒ह । प्रि॒यम् । प्र॒ऽजया॑ । ते॒ । सम् । ऋ॒ध्य॒ता॒म् । अ॒स्मिन् । गृ॒हे । गार्ह॑ऽपत्याय । जा॒गृ॒हि॒ । ए॒ना । पत्या॑ । त॒न्व॑म् । सम् । सृ॒ज॒स्व॒ । अध॑ । जिव्री॒ इति॑ । वि॒दथ॑म् । आ । व॒दा॒थः॒ ॥ १०.८५.२७

ऋग्वेद » मण्डल:10» सूक्त:85» मन्त्र:27 | अष्टक:8» अध्याय:3» वर्ग:25» मन्त्र:2 | मण्डल:10» अनुवाक:7» मन्त्र:27


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इह ते प्रियम्) हे वधू ! इस पतिगृह में तेरा अभीष्ट (प्रजया समृध्यताम्) सन्तति के साथ समृद्ध हो (अस्मिन् गृहे) इस घर में (गार्हपत्याय, जागृहि) गृहस्थ कर्म के लिये सावधान हो-संयम से गृहस्थकर्म आचरण कर (एना पत्या) इस पति के साथ (तन्वं संसृज) स्वशरीर को सम्पृक्त कर-संयुक्त कर (अध) पुनः (जिव्री) तुम दोनों जीर्ण-वृद्ध हुए भी (विदथम्) परस्पर सहानुभूतिवचन (आवदाथः) भलीभाँति बोलो ॥२७॥
भावार्थभाषाः - स्त्री का अभीष्ट पतिगृह में है, जो सन्तान के साथ पूरा होता है, गृहस्थ संयम से करना चाहिए, वरवधू वृद्ध होने पर भी मीठा हितकर बोलें ॥२७॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (इह-ते प्रियं प्रजया समृध्यताम्) हे वधु ! अस्मिन् पतिगृहे तवाभीष्टं सन्तत्या सह समृद्धं भवतु (अस्मिन् गृहे गार्हपत्याय जागृहि) अस्मिन् गृहे गृहस्थकर्मणे सावधाना भव-संयमेन गृहस्थकर्माचर (एना पत्या तन्वं संसृज) अनेन पत्या सह स्वशरीरं सम्पृक्तं कुरु (अध) अनन्तरं (जिव्री) युवां जीर्णौ वृद्धावपि सन्तौ “जिव्रयः-जीर्णाः” (निरु० ३।२१) “जीर्यतेः क्रिन् रश्च वः” [उणा० ५।४९] (विदथम्-आवदाथः) परस्परं सहानुभूतिवचनं समन्ताद्वदथः ॥२७॥